गजाननं भूतगणादिसेवितं कपित्थजंबूफलचारुभक्षणम् ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥
॥ गणपति स्तोत्र ॥
विघ्नेश्वराय वरदाय सुरप्रियाय,
लम्बोदराय सकलाय जगद्विताय ।
नागाननाय श्रुति यज्ञ विभूषिताय,
गौरीसुताय गणनाथ नमोस्तुते ॥
भक्तार्तिनाशनपराय गणेश्वराय,
सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय,
भक्तप्रसन्न वरदाय नमोनमस्ते ॥
नमस्ते ब्रह्मरूपाय विष्णुरूपायते नमः,
नमस्ते रूद्ररूपाय करि रूपायते नमः ।
विश्वरूपस्य रूपाय नमस्ते ब्रह्मचारिणे,
भक्तप्रियाय देवाय नमस्तुभ्यं विनायकः ॥
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय,
निर्विनं में कुरू सर्व कार्येषु सर्वदा ।
त्वां विन शत्रु दलनेति च सुंदरेति ,
भक्तप्रियेति शुभदेति फलप्रदेति ॥
विद्याप्रदेत्यघहरेति च ये स्तुवंति,
तेभ्यो गणेश वरदो भव नित्यमेवि ।
अनया पूजया सांगाय सपरिवाराय,
श्री गणपतिम समर्पयामि नमः ॥
0 comments:
Post a Comment